Skip to main content

मूल श्लोकः

*🔔मूल श्लोकः 🔔*
इष्टान्भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः।।३.१२।।
*🌷पदार्थः...... 🌷*
यज्ञभाविताः - यज्ञवर्धिताः
देवाः — इन्द्रादयः
वः — युष्मभ्यम्
इष्टान् — अभीप्सितान्
भोगान् — पदार्थान्
दास्यन्ते — वितरिष्यन्ति
तैः — देवैः
दत्तान् — वितीर्णान्
एभ्यः — देवेभ्यः
अप्रदाय — अदत्त्वा
यः भुङ्क्ते — यः पुरुषः अनुभवति
सः स्तेनः एव — सः चोरः एव।
*🌻अन्वयः 🌻*
यज्ञभाविताः देवाः वः इष्टान् भोगान् दास्यन्ते। तैः दत्तान् एभ्यः अप्रदाय यः भुङ्क्ते स स्तेनः एव।
*🐚आकाङ्क्षाः🐚*
_दास्यन्ते।_
के दास्यन्ते?
*देवाः दास्यन्ते।*
देवाः कान् दास्यन्ते?
*देवाः भोगान् दास्यन्ते।*
देवाः कीदृशान् भोगान् दास्यन्ते?
*देवाः इष्टान् भोगान् दास्यन्ते।*
देवाः केभ्यः इष्टान् भोगान् दास्यन्ते?
*देवाः वः इष्टान् भोगान् दास्यन्ते।*
कीदृशाः देवाः वः इष्टान् भोगान् दास्यन्ते?
*यज्ञभाविताः देवाः वः इष्टान् भोगान् दास्यन्ते।*
_भुङ्क्ते।_
कान् भुङ्क्ते?
*दत्तान् भुङ्क्ते।*
कैः दत्तान् भुङ्क्ते?
*तैः दत्तान् भुङ्क्ते।*
तैः दत्तान् कथं भुङ्क्ते?
*तैः दत्तान् अप्रदाय भुङ्क्ते।*
तैः दत्तान् केभ्यः अप्रदाय भुङ्क्ते?
*तैः दत्तान् एभ्यः अप्रदाय भुङ्क्ते।*
तैः दत्तान् एभ्यः अप्रदाय यः भुङ्क्ते सः कः?
*तैः दत्तान् एभ्यः अप्रदाय यः भुङ्क्ते सः स्तेनः एव।*
*📢 तात्पर्यम्......*
यज्ञेन सन्तुष्टाः देवाः प्रार्थनां विनापि अस्मभ्यम् अभीप्सितं वस्तु प्रयच्छन्ति। तेभ्यः देवेभ्यः किमपि अदत्त्वा यः सर्वम् अनुभवति सः चोरः एव भवति।
*🌻व्याकरणम्.......*
▶सन्धिः
वो देवाः = वः देवाः - विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः।
तैर्दत्तान् = तैः + दत्तान् - विसर्गसन्धिः (रेफः)।
प्रदायैभ्यो = प्रदाय + एभ्यः - वृद्धिसन्धिः।
प्रदायैभ्यो यो = प्रदायैभ्यः + यः - विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः।
यो भुङ्क्ते = यः + भुङ्क्ते - विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः।
स्तेन एव = स्तेनः + एव - विसर्गसन्धिः (लोपः)।
▶ समासः
यज्ञभाविताः = यज्ञेन भाविताः - तृतीयातत्पुरुषः।
▶ कृदन्तः
इष्टान् = इषु + क्त। (कर्मणि) तान्।
प्रदाय = प्र + दा + ल्यप्।
दत्तान् = दा + क्त। (कर्मणि) तान्।
🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹
                              *गीताप्रवेशात्*
--गणान्तरात्

Comments

Popular posts from this blog

विपर्याय शब्धाः (opposite)

विपर्याय शब्धाः (opposite)-- अपकरोति  x. उपकरोति अभिनन्दति x निन्दति आनन्दति,हृष्यति x विषीदति,          शोचति, खिद्यते,खन्ते, खिदति । आरोहति x अवरोहति उत्कर्षति x अपकर्षति सङ्घटयति x व...

अडागम-युक्त-लकारेषु उपसर्गाणां

🌺अडागम-युक्त-लकारेषु उपसर्गाणां योजनम्।🌺 💐 केचन लकाराः अडागमं स्वीकुर्वन्ति। तत्र उपसर्गयोजनं क्लेशाय इति बहवः मन्यन्ते। तस्य सरलतया साधनाय उपायः अत्र प्रस्तूय...

सुभाषितमाला जानेवारी 2020

नास्ति विद्यासमो बन्धुर्नास्ति विद्यासमः सुहृत् । नास्ति विद्यासमं वित्तं नास्ति विद्यासमं सुखम् ॥ Meaning: “There is no greater friend or relative than education; there is no greater wealth or happiness than education.” --------- -------- ---------- --------- -------- ---------- यस्तु संचरते देशान् यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ॥ Transliteration: yastu saṃcarate deśān yastu seveta paṇḍitān । tasya vistāritā buddhistailabindurivāmbhasi ॥ English Translation: The intelligence of a person who travels in different countries and associates with scholars expands, just as a drop of oil expands in water.​ Hindi Translation: भिन्न देशों में यात्रा करने वाले और विद्वानों के साथ संबंध रखने वाले व्यक्ति की बुद्धि उसी तरह बढ़ती है, जैसे तेल की एक बूंद पानी में फैलती है। --------- -------- ---------- --------- -------- ---------- यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते।  न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥ Wise men always aspire to and do things within t...