Skip to main content

अडागम-युक्त-लकारेषु उपसर्गाणां

🌺अडागम-युक्त-लकारेषु उपसर्गाणां योजनम्।🌺
💐
केचन लकाराः अडागमं स्वीकुर्वन्ति। तत्र उपसर्गयोजनं क्लेशाय इति बहवः मन्यन्ते। तस्य सरलतया साधनाय उपायः अत्र प्रस्तूयते।
उपसर्गाः २२ भवन्ति। (दुस्-दुर्, निस्-निर्- इत्यनयोः सम्मेलनेन २० एव।) तेषामन्तं पश्यतु।
अकारः, आकारः, इकारः, उकारः, व्यञ्जनम्- एवं चतुर्धा भवति।
ततः धातोः प्रारम्भाक्षरं पश्यतु। अत्र व्यञ्जनेन प्रारभमाणस्य धातोः उदाहरणं दीयते। यथा व्यञ्जनेनारब्धस्य धातोः अडागमः भवति, तदानीं स अकारः धातोः पूर्वं युज्यते। ततः पूर्वं च उपसर्गः। अतः उपसर्गान्तेन अडागमः यदा संयुज्यते, तदा एवं भवति--
🍁
अकारान्ताः उपसर्गाः-- प्र, अप, अव, उप ; (+ अ =दीर्घः भवति।)
आकारान्ताः उपसर्गाः -- परा, आ (आङ्‌) ; (+ अ =दीर्घः भवति।)
इकारान्ताः उपसर्गाः -- नि, अधि, अपि, वि, अति, अभि, प्रति, परि ; (+ अ =य(ण्) भवति।)
उकारान्तौ उपसर्गौ -- अनु, सु ; (+ अ =व (यण्) भवति।)
व्यञ्जनान्ताः उपसर्गाः -- सम्‌, निस्‌-निर्‌, दुस्‌-दुर्‌, उत्/उद्‌ ; (+ अ =अ भवति।)
💥
उदा- गम्-धातुः। लङ्-लकारः। प्रथमपुरुषैकवचनम्। ‘अगच्छत्’ इति।
🍀
तस्य उपसर्गयुक्तानि रूपाणि पश्यामः। (एतानि सर्वाणि एवंरूपेण लोके न सन्ति। केवलमुदाहरणतया रूपाणां प्रदर्शनाय एवं कृतम्।)--
🌸
प्र + अ = प्रा ॥ प्रा + गच्छत् = प्रागच्छत्
परा + अ = परा ॥ परा + गच्छत् = परागच्छत्
अप + अ = अपा ॥ अपा + गच्छत् = अपागच्छत्
सम्‌ + अ = सम ॥ सम + गच्छत् = समगच्छत्
अनु + अ = अन्व ॥ अन्व + गच्छत् = अन्वगच्छत्
अव + अ = अवा ॥ अवा + गच्छत् = अवागच्छत्
निर्‌ + अ = निर (निस् इतस्य निर् इति भवति) ॥ निर + गच्छत् = निरगच्छत्
दुर्‌ + अ = दुर (दुस् इतस्य दुर् इति भवति) ॥ दुर + गच्छत् = दुरगच्छत्
वि + अ = व्य ॥ व्य + गच्छत् = व्यगच्छत्
आ (आङ्‌) + अ = आ ॥ आ + गच्छत् = आगच्छत्
नि + अ = न्य ॥ न्य + गच्छत् = न्यगच्छत्
अधि + अ = अध्य ॥ अध्य + गच्छत् = अध्यगच्छत्
अपि + अ = अप्य ॥ अप्य + गच्छत् = अप्यगच्छत्
अति + अ = अत्य ॥ अत्य + गच्छत् = अत्यगच्छत्
सु + अ = स्व ॥ स्व + गच्छत् = स्वगच्छत्
उत् /उद्‌ + अ = उद ॥ उद + गच्छत् = उदगच्छत्
अभि + अ = अभ्य ॥ अभ्य + गच्छत् = अभ्यगच्छत्
प्रति + अ = प्रत्य ॥ प्रत्य + गच्छत् = प्रत्यगच्छत्
परि + अ = पर्य ॥ पर्य + गच्छत् = पर्यगच्छत्
उप + अ = उपा ॥ उपा + गच्छत् = उपागच्छत्
🌻
तथैव भूधातोरपि।
प्राभवत्, पराभवत्, अपाभवत्, समभवत्, अन्वभवत्, अवाभवत्, निरभवत्, दुरभवत्, व्यभवत्, आभवत्, न्यभवत्, अध्यभवत्, अप्यभवत्, अत्यभवत्, स्वभवत्, उदभवत्, अभ्यभवत्, प्रत्यभवत्, पर्यभवत्, उपाभवत्।🎀
एवमेव अन्ये द्रष्टव्याः।🙏
इति शम्।🌹

Comments

  1. This comment has been removed by the author.

    ReplyDelete
  2. Whenever you borrow material, pl acknowledge.

    ReplyDelete
  3. Hariom. This article was written by me on WhatsApp. Author has removed my name and published. Please do not indulge in plagiarism. --Usha Sanka

    ReplyDelete

Post a Comment

Popular posts from this blog

शिष्टाचारः

शिष्टाचारः ( Common formulas or Good practices)[सम्पाद्यताम्] • हरिः ॐ ! = Hello ! • सुप्रभातम् |* = Good morning. • नमस्कारः/नमस्ते । = Good afternoon/Good evening. • शुभरात्रिः । = Good night. • धन्यवादः । = Thank You. • स्वागतम् । = Welcome. • क्षम्यताम् । = Excuse/Pardon me. • चिन्ता मास्तु ...

सुभाषितमाला जानेवारी 2020

नास्ति विद्यासमो बन्धुर्नास्ति विद्यासमः सुहृत् । नास्ति विद्यासमं वित्तं नास्ति विद्यासमं सुखम् ॥ Meaning: “There is no greater friend or relative than education; there is no greater wealth or happiness than education.” --------- -------- ---------- --------- -------- ---------- यस्तु संचरते देशान् यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ॥ Transliteration: yastu saṃcarate deśān yastu seveta paṇḍitān । tasya vistāritā buddhistailabindurivāmbhasi ॥ English Translation: The intelligence of a person who travels in different countries and associates with scholars expands, just as a drop of oil expands in water.​ Hindi Translation: भिन्न देशों में यात्रा करने वाले और विद्वानों के साथ संबंध रखने वाले व्यक्ति की बुद्धि उसी तरह बढ़ती है, जैसे तेल की एक बूंद पानी में फैलती है। --------- -------- ---------- --------- -------- ---------- यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते।  न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥ Wise men always aspire to and do things within t...

१० लकार का अनमोल ज्ञान

ॐ .... १० लकार का अनमोल ज्ञान :-- 🕉 Mahadev Sanskrit Sangatanam🕉 >>> संस्कृत में काल दश भागों में विभाजित है जिनको दश लकार कहा जाता है :-- 🔯🔯🔯🔯🔯🔯🔯🔯🔯 ०१ ) लट् ---- ल् + अ + ट् ०२ ) लिट् ---- ल् + इ + ट् ०३ ) लुट् ---- ल् + उ + ट् ०४ ) लृट् ---...